|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.67. अध्यायः 067
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति वसुमनसे बृहस्पत्युक्तराजगुणानुवर्णनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-67-0x(5494)(67406)
किमाहुर्दैवतं विप्रा राजानं भरतर्षभ।
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह॥ 12-67-1(67407)
भीष्म उवाच। 12-67-2x(5495)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
बृहस्पतिं वसुमना यथा पप्रच्छ भारत॥ 12-67-2(67408)
राजा वसुमना नाम कौसल्यो धीमतां वरः।
महर्षि किल पप्रच्छ कृतप्रज्ञं बृहस्पतिम्॥ 12-67-3(67409)
सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतिम्।
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम्॥ 12-67-4(67410)
विधिं पप्रच्छ राजस्य सर्वलोकहिते रतः।
प्रजानां सुखमन्विच्छन्धर्मशीलं बृहस्पतिम्॥ 12-67-5(67411)
केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन वा।
कमर्चन्तो महाप्राज्ञ सुखमव्ययमाप्नुयुः॥
`एतन्मे शंस देवर्षे धर्मकामार्थसंशयम्'॥ 12-67-6(67412)
एवं पृष्टो महाप्राज्ञः कौसल्येनामितौजसा।
राजसत्कारमव्यग्रो राज्यस्य च विवर्धनम्।
दण्डनीतिं समाश्रित्य शशंसास्मै बृहस्पतिः॥ 12-67-7(67413)
राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते।
प्रजा राजभयादेव न खादन्ति परस्परम्॥ 12-67-8(67414)
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्।
प्रसादयति धर्मेण प्रसाद्य च विराजते॥ 12-67-9(67415)
यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः।
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम्॥ 12-67-10(67416)
यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः।
विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः॥ 12-67-11(67417)
विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम्।
अभावमचिरेणैव गच्छेयुर्नात्र संशयः॥ 12-67-12(67418)
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः।
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा॥ 12-67-13(67419)
हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान्।
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत्॥ 12-67-14(67420)
ममेदमिति लोकेऽस्मिन्न भवेत्स्वपरिग्रहः।
न दारा न च पुत्रः स्यान्न धनं न परिग्रहः।
विष्वग्लोपः प्रवर्तेत यदि राजा न पालयेत्॥ 12-67-15(67421)
यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च।
हरेयुः सहसा पापा यदि राजा न पालयेत्॥ 12-67-16(67422)
पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु।
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत्॥ 12-67-17(67423)
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्।
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्॥ 12-67-18(67424)
`अन्यांश्च क्रोशतो हिंस्युर्लोकोऽयं दस्युवद्भवेत्।'
वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत्।
ममत्वं च न विन्देयुर्यदि राजा न पालयेत्॥ 12-67-19(67425)
अन्ताश्चाकाल एव स्युर्लोकोऽयं दस्युसाद्भवेत्।
पतेद्बहुविधं राज्यं यदि राजा न पालयेत्॥ 12-67-20(67426)
न योनिदोषो वर्तेत न कृषिर्न वणिक्पथः।
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत्॥ 12-67-21(67427)
न यज्ञाः संप्रवर्तेयुर्विधिवत्स्वाप्तदक्षिणाः।
न विवाहाः समाजो वा यदि राजा न पालयेत्॥ 12-67-22(67428)
न वृषाः संप्रवर्तेरन्न मथ्येरंश्च गर्गराः।
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत्॥ 12-67-23(67429)
त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम्।
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत्॥ 12-67-24(67430)
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः।
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत्॥ 12-67-25(67431)
ब्राह्मणाश्चतुरो वेदान्नाधीयीरंस्तपस्विनः।
विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत्॥ 12-67-26(67432)
न भवेद्धर्मसंसेवी मोहविप्रहतो जनः।
हर्ता स्वच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत्॥ 12-67-27(67433)
हस्ताद्धस्तं परिमुषेद्भिद्येरन्सर्वसेतवः।
भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत्॥ 12-67-28(67434)
अनयाः संप्रवपर्तेरन्भवेद्वै वर्णसङ्करः।
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत्॥ 12-67-29(67435)
विवृत्य हि यथाकामं गृहद्वाराणि शेरते।
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः॥ 12-67-30(67436)
नाक्रुष्टं सहते कश्चित्कुतो वा हस्तलाघवम्।
यदि राजा न सम्यग्गां रक्षयत्यपि धार्मिकः॥ 12-67-31(67437)
स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः।
निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः॥ 12-67-32(67438)
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्।
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः॥ 12-67-33(67439)
यजन्ते च महायज्ञैस्त्रयो वर्णाः पृथग्विधैः।
युक्ताश्चाधीयते विद्यां यदा रक्षति भूमिपः॥ 12-67-34(67440)
वार्तामूलो ह्ययं लोकस्तया वै धार्यते सदा।
तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः॥ 12-67-35(67441)
यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः।
महता बलयोगेन तदा लोकः प्रसीदयि॥ 12-67-36(67442)
यस्याभावेन भूतानामभावः स्यात्समन्ततः।
भावे च भावो नित्यं स्यात्कस्तं न प्रतिपूजयेत्॥ 12-67-37(67443)
तस्य यो वहते भारं सर्वलोकसुखावहम्।
तिष्ठन्प्रियहिते राज्ञ उभौ लोकाविमौ जयेत्॥ 12-67-38(67444)
यस्तस्य पुरुषः पापं मनसाऽप्यनुचिन्तयेत्।
असंशयमिह क्लिष्टः प्रेत्यापि नरकं व्रजेत्॥ 12-67-39(67445)
न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः।
महती देवता ह्येषा नररूपेण तिष्ठति॥ 12-67-40(67446)
कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा।
भवत्यग्निस्तथाऽऽदित्यो मृत्युर्वैश्रवणो यमः॥ 12-67-41(67447)
यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा।
मिथ्योपचरितो राजा तदा भवति पावकः॥ 12-67-42(67448)
यदा पश्यति चारेण सर्वभूतानि भूमिपः।
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः॥ 12-67-43(67449)
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान्।
सपुत्रपौत्रान्सामात्यांस्तदा भवति सोन्तकः॥ 12-67-44(67450)
यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण़्डैर्नियच्छति।
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा॥ 12-67-45(67451)
यदा तु धनधाराभिस्तर्पयत्युपकारिणः।
आच्छिनत्ति च रत्नानि विविधान्यपकारिणां॥ 12-67-46(67452)
श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति।
तदा वैश्रवणो राजा लोके भवति भूमिपः॥ 12-67-47(67453)
नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा।
धर्ममाकाङ्क्षता लोके ईश्वरस्यानसूयता॥ 12-67-48(67454)
न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात्।
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत्॥ 12-67-49(67455)
कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः।
न तु राज्ञाऽभिपन्नस्य शेषं क्वचन विद्यते॥ 12-67-50(67456)
तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत्।
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः॥ 12-67-51(67457)
वध्येतभिमृशन्सद्यो मृगः कूटमिव स्पृशन्।
आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान्॥ 12-67-52(67458)
महान्तं नरकं घोरमप्रतिष्ठमचेतसः।
पतन्ति चिररात्राय राजवित्तापहारिणः॥ 12-67-53(67459)
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति॥ 12-67-54(67460)
तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः।
मेधावी धृतिमान्दक्षः संश्रयेत् महीपतिम्॥ 12-67-55(67461)
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम्।
धर्मनित्यं स्थितं स्थाने मन्त्रिणं पूजयेन्नृपः॥ 12-67-56(67462)
दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम्।
शूरमक्षुद्रकर्माणं प्रसिद्धं जनमाश्रयेत्॥ 12-67-57(67463)
राजा प्रगल्भं पुरुषं करोति
राजा भृशं बृंहयते मनुष्यम्।
राजाभिपन्नस्य कुतः सुखानि
राजाऽभ्युपेतं सुखिनं करोति॥ 12-67-58(67464)
`राजा प्रजानां प्रथमं शरीरं
प्रजाश्च राज्ञोऽप्रतिमं शरीरम्।
राज्ञा विहीना न भवन्ति देशा
देशैर्विहीना न नृपा भवन्ति॥' 12-67-59(67465)
राजा प्रजानां हृदयं गरीयो
गतिः प्रतिष्ठा सुखमुत्तमं च।
समाश्रिता लोकमिमं परं च
जयन्ति सम्यक्पुरुषा नरेन्द्र॥ 12-67-60(67466)
नराधिपश्चाप्यनुशिष्य मेदिनीं
दमेन सत्येन च सौहृदेन।
महद्भिरिष्ट्वा क्रतुभिर्महायशा
स्त्रिविष्टपे स्थानमुपैति शाश्वतम्॥ 12-67-61(67467)
भीष्म उवाच। 12-67-62x(5496)
स एवमुक्तोऽङ्गिरसा कौसल्यो राजसत्तमः।
प्रयत्नात्कृतवान्वीरः प्रजापालनमुत्तमम्॥ ॥ 12-67-62(67468)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तषष्टितमोऽध्यायः॥ 67॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-67-4 वैनयिकं अभ्युत्थानाभिवादनादिकम्। दक्षिणा दक्षिणातोऽनन्तरः। समीपे भूत्वाप्रदक्षिणीकृत्येत्यर्थः॥ 12-67-11 अनुदके अल्पोदके। निराक्रन्दे हिंस्रभयरहिते॥ 12-67-14 व्यायच्छमानान्स्वंस्वमर्थं अदातॄन्॥ 12-67-15 विष्वक्सर्वतः लोपः अर्थानां लुम्पनम्॥ 12-67-18 अन्धाश्च क्रोशत इति द.पाठः॥ 12-67-21 योनिदोषः व्यभिचारे विगानम्॥ 12-67-23 न संप्रवर्तेरन् न रेतः सिञ्चेरन्। गर्गराः दधिमन्थनपात्राणि॥ 12-67-28 हस्ताद्धस्तं हस्तस्थमपि चोरा हरेयुः॥ 12-67-30 विवृत्य उद्धाट्य॥ 12-67-31 हस्तलाघवं तत्साध्यं ताडनम्। अक्रुष्टं गालनं वा कुतो न सहते। अपितु अनायकत्वात्सहत एव। गां पृथ्वीम्॥ 12-67-32 अपुरुषाः अरक्षिता अपि॥ 12-67-35 त्रय्या वै इति झ. पाठः। तत्र वार्ता जीविका तन्मूलः। त्रय्या च वृष्ट्या दिहेतुतया त्रायते रक्षते सर्वं त्रयी वार्तादिरित्यर्थः॥ 12-67-42 आसीदतः समीपस्थान्। मिथ्योपचरितो वञ्चितः॥ 12-67-48 तस्योपदेशे स्थातव्यमिति ट.ड.थ. पाठः॥ 12-67-50 अभिपन्नस्य तिरस्कृतस्य॥ 12-67-52 कूटं मारणयन्त्रम्॥ 12-67-54 भोजः सुखानां भोजयिता॥ 12-67-55 बुभूषुर्भवितुमिच्छुः॥ 12-67-58 निषिद्धजनमाश्रयेदिति झ. पाठः। तत्र निषिद्धा जना येन तम्। अहमेकं एवेदं कार्यं करिष्यामि किमेतैरिति वादिनमित्यर्थः॥ 12-67-60 समाश्रिता राजानमिति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|